________________
स्कन्दमहापुराणम्
नमः परमदेवाय त्रैगुण्याविजितात्मने सर्वतो योगरूपाय संसाराभावहेतवे १
स्थितिसंरोधसर्गाणां हेतवेऽन्तः प्रसारिणे षड्विंशाय प्रधानाय महादेवाय धीमते २
प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ३
मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ४
पौराणिकमपश्यन्त सूतं सत्यपरायणम् स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ५
दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः आशास्यासनसंवेशं तद्योग्यं समकल्पयन् ६
स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ७
तमासीनमपृच्छन्त मुनयस्तपसैधिताः ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् ८
कथितं भारताख्यानं पुराणं च परं त्वया तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ६
सर्वागमपरार्थज्ञः सत्यधर्मपरायणः
द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि १०
1